प्रथमो भाग - अक्षराभ्यासः (Part 01)
An
Introduction to Saṃskrita Syllables
Prayers
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु
मे सदा ॥
साक्षात्कृतं
दयानन्दं परमार्थस्वरूपिणम् ।
तत्त्वज्ञानप्रशास्तारं
प्रणतोऽस्मि परं पदम् ॥
येनाक्षरं
समाम्नायं अधिगम्य महेष्वरात् ।
कृत्स्नं
व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥
वाक्यकारं
वररुचिं भाष्यकारं पतञ्जलिम् ।
पाणिनिं
सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
वागर्थाविव
सम्प्रक्तौ वागर्थप्रतिपत्तये ।
जगतः
पितरौ वन्दे पार्वती-परमेश्वरौ ॥
ओम्
सहनाववतु । सह नौ भुनक्तु ।सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु माविद्षावहै ॥ ओम्
शान्तिः शान्तिः शान्तिः ॥
No comments:
Post a Comment